|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.103. अध्यायः 103
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-103-0x(4194)(43417)
मध्यंदिनो महाराज संग्रामः समपद्यत।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ 6-103-1(43418)
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः॥ 6-103-2(43419)
संममर्द च तत्सैन्यं पिता देवव्रतस्तव।
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ॥ 6-103-3(43420)
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ 6-103-4(43421)
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ 6-103-5(43422)
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ 6-103-6(43423)
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ 6-103-7(43424)
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 6-103-8(43425)
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ 6-103-9(43426)
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ 6-103-10(43427)
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ 6-103-11(43428)
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ 6-103-12(43429)
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ 6-103-13(43430)
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया ।
प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ॥ 6-103-14(43431)
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ 6-103-15(43432)
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ 6-103-16(43433)
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्।
तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ 6-103-17(43434)
अनयन्परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ॥ 6-103-18(43435)
रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ 6-103-19(43436)
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ 6-103-20(43437)
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥ 6-103-21(43438)
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि।
ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ॥ 6-103-22(43439)
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ 6-103-23(43440)
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥ 6-103-24(43441)
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥ 6-103-25(43442)
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश।
नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ॥ 6-103-26(43443)
तथैव दन्तिभिर्हीना गजारोहा विशांपते।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ॥ 6-103-27(43444)
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ 6-103-28(43445)
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ 6-103-29(43446)
गजो गजं समासाद्य द्रवमाणं महाहवे ।
ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।
तथैव च रथान्राजन्प्रममर्द रणे गजः ॥ 6-103-30(43447)
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि।
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ॥ 6-103-31(43448)
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्।
`दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ॥' 6-103-32(43449)
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये।
प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ॥ 6-103-33(43450)
अस्थिसङ्घातसंबाधा केशशैवलाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा॥ 6-103-34(43451)
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥ 6-103-35(43452)
` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।'
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ॥ 6-103-36(43453)
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ॥ 6-103-37(43454)
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ 6-103-38(43455)
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥ 6-103-39(43456)
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ 6-103-40(43457)
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ 6-103-41(43458)
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ 6-103-42(43459)
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत।
युध्यध्वमनहंकराः किं चिरं कुरुथेति च ॥ 6-103-43(43460)
`इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः'
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ 6-103-44(43461)
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥ 6-103-45(43462)
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ॥ 6-103-46(43463)
6-103-47(43464)
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः ।
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ॥ इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा। यद्वा स्त्रीमयं स्वार्थे मयट् ॥ 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ॥ 6-103-28 अद्राक्षमहं सञ्जयः ॥ 6-103-42 आगस्कृदपराधी ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|